
Sanskrit Solved Model Queston Paper Class 8th | ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र विषय - संस्कृत कक्षा 8 वार्षिक परीक्षा 2025
बहुविकल्पीयप्रश्नः (प्र. 1-5)
प्रश्न 1. कार्यक्षेत्रे-
(A) चरणीयम्
(B) त्वरणीयम्
(C) मननीयम्
(D) शयनीयम्
उत्तर― (B) त्वरणीयम्
प्रश्न 2. चन्द्रशेखरस्य जन्म अभवत् -
(A) मध्यप्रदेशे
(B) गुर्जरप्रदेशे
(C) उत्तरप्रदेशे
(D) कर्नाटकप्रदेशे
उत्तर― (A) मध्यप्रदेशे
प्रश्न 3. अहिल्यायाः व्यक्तित्वं वर्तते -
(A) बहुमुखी
(B) एकमुखी
(C) दुर्मुखी
(D) अधोमुखी
उत्तर― (A) बहुमुखी
प्रश्न 4. 'तरप्' प्रत्ययः कस्मिन् पदे अस्ति -
(A) उच्चतमः
(B) लघुतमः
(C) उच्चतरः
(D) कृशतमः
उत्तर― (C) उच्चतरः
प्रश्न 5. अधोलिखितेषु उपसर्गः नास्ति -
(A) प्र
(B) मा
(C) परा
(D) अप
उत्तर― (B) मा
रिक्तस्थानपूर्तिः (प्र. 6-10)
प्रश्न 6. मनसा सततं स्मरणीयम्।
प्रश्न 7. निम्बवृक्षे एकं चटकायुगलम् प्रतिवसति स्म।
प्रश्न 8. चिन्ता बहुतरी तृणात्।
प्रश्न 9. 'सर्वे' इति रूपं प्रथमा विभक्तेः भवति ।
प्रश्न 10. 'पठेयुः' इति रूपं विधिलिङ् लकारे भवति।
अति लघु उत्तरीय प्रश्न (प्र. 11-16)
प्रश्न .11 'कपित्थ' ग्रामः कुत्र अस्ति ?
उत्तर― उज्जयिनीनिकटे
प्रश्न 12. भोजनं कदा विषं भवति ?
उत्तर― अजीर्णे
प्रश्न 13. ओरछानगरस्य स्थापना केन कृता ?
उत्तर― रुद्रप्रतापेन
प्रश्न 14. कया द्वितीयवान् भवति ?
उत्तर― धृत्या
प्रश्न 15. 'बालकः पुस्तकं पठति' अत्र पुस्तकं पदे कः कारकः ?
उत्तर― पुस्तकं
प्रश्न 16. 'स्वागतम्' इत्यस्मिन् पदे कः उपसर्गः अस्ति ?
उत्तर― सु
लघु उत्तरीय प्रश्न (प्र. 17-22)
प्रश्न 17. स्वपाठ्यपुस्तकस्य एकं श्लोकं लिखत ।
उत्तर― उदये सविता ताम्रस्ताम्र एवास्तमेति च।
सम्पत्तौ च विपत्तौ च, महतामेकरूपता ॥
प्रश्न 18. निम्नलिखितसङख्याः संस्कृतशब्देषु लिखत ?
09, 33, 48.
उत्तर― 9 - नव
33 - त्रयस्त्रिशत्
48 - अष्टचत्वारिंशत्
प्रश्न 19. चटकायाः अण्डानि कुत्र आसन् ?
उत्तर― चटकायाः अण्डानि वृक्षस्य शाखायाम् आसन् ।
प्रश्न 20. शिल्पिनः कुत्र स्वयन्त्राणां पूजनं कुर्वन्ति ?
उत्तर― शिल्पिनः दक्षिणभारते स्वयन्त्राणां पूजनं कुर्वन्ति ।
प्रश्न 21. छायामन्यस्य के कुर्वन्ति ?
उत्तर― छायामन्यस्य वृक्षाः कुर्वन्ति ।
प्रश्न 22. रोदनं श्रुत्वा काष्ठभेदकः चटकायुगलं किम् उक्तवान् ?
उत्तर― 'सः एव बुद्धिमान् यः मृतं गतं च न चिन्तयति' इति ।
दीर्घ उत्तरीय प्रश्नाः (प्र. 23-26)
प्रश्न 23. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
अहम् ओरा। अहं टीकमगढ़मण्डले स्थितं प्राचीन नगरम् अस्मि । पूर्व स्वतन्त्रराज्यरूपेण मम परिचयः आसीत्। मम स्थापना षोडशशताब्दे बुन्देलाराजपूतेन रुद्रप्रतापेन कृता। माम् परितः सधनं वनम् अस्ति। अस्मिन् बने सागौनवृक्षाः अधिकाः भवन्ति। सागौनकाष्ठ बहुमूल्यं भवति।
प्रश्न- (1) ओरछा किम् अस्ति ?
(ii) ओरछायाः पूर्व परिचयः कथम् आसीत् ?
(iii) ओरछायाः स्थापना केन कृता ?
(iv) ओरछां परितः किम् अस्ति ?
(v) 'अहम्' इत्यस्य पदस्य पुरुषं वचनं च लिखत ।
उत्तर― (i) ओरछा टीक़मगढ़मण्डले स्थितं प्राचीनं नगरम् अस्ति ।
(ii) ओरछायाः पूर्वं स्वतन्त्रराज्यरूपेण परिचयः आसीत्।
(iii) ओरछायाः स्थापना बुन्देलाराजपूतेन रुद्रप्रतापेन कृता।
(iv) ओरछां परितः सघनं वनम् अस्ति ।
(v) उत्तमपुरुषः एकवचनं च।
प्रश्न 24. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
आपत्सु मित्रं जानीयाद् बुद्धं शूरं धने सुचिम्।
भार्या क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥
प्रश्न-(1) कदा मित्रं जानीयाद ?
(ii) कदा शूरं जानीयाद् ?
(iii) क्षीणेषु का जानीयाद ?
(iv) केषु बान्धवान् जानीयाद ?
(v) 'आपत्सु' इत्यस्य पदस्य विभक्तिं वचनं च लिखत ?
उत्तर― (i) आपत्सु मित्रं जानीयाद् ।
(ii) युद्धे शूरं जानीयाद् ।
(iii) क्षीणेषु भार्या जानीयाद्।
(iv) व्यसनेषु वान्धवान् जानीयाद् ।
(v) सप्तमी विभक्तिः बहुवचनम् च ।
प्रश्न 25. प्रदत्तशब्दैः पत्रं पुरयत-
(स्वीकुर्वन्तु, कार्यम्, पावनी, अस्ति, सेवायाम्)
...........
श्रीमान् प्रधानाध्यापकमहोदयः
शासकीय माध्यमिक विद्यालयः
समनापुरम्
महोदय !
सविनयं निवेदनम् ........... यत् मम गृहे आवश्यकं ........... आगतम्। अस्मात् कारणात् अर्ह विद्यालयम् आगन्तु न शक्नोमि।
अतः मां द्विदिवसीयम् अवकाशं ............।
भवतः शिष्या
............
दिनांक : ५/३/२०२५
उत्तर―
सेवायाम्
श्रीमान् प्रधानाध्यापकमहोदयः
शासकीय माध्यमिक विद्यालयः
समनापुरम्
महोदय !
सविनयं निवेदनम् अस्ति यत् मम गृहे आवश्यकं कार्यम् आगतम् । अस्मात् कारणात् अहं विद्यालयम् अपबंतंहम न शक्नोमि ।
अतः मां द्विदिवसीयम् अवकाशं स्वीकुर्वन्ति।
दिनांक:-५/३/२०२५
भवतः शिष्या
पावनी
कक्षा-अष्टमी
प्रश्न 26. अधोलिखितेषु विषयेषु एकस्मिन् विषये पञ्चवाक्येषु वाक्यानि (निबन्धं) रचयत -
(क) कर्ण:
(ख) विद्यालयः
(ग) उद्यानम्
(घ) पुस्तकम्
उत्तर―
(क) कर्ण:
(१) कर्ण: पाण्डवाना अग्रजः आसीत्।
(२) कर्णः कुन्तीपुत्रः आसीत्।
(३) अङ्गदेशस्य नृपः आसीत्।
(४) सः दुर्योधनस्य सेनायाः सेनापतिः अपि आसीत्।
(५) कर्णः दानवीरः आसीत्।
(६) महाभारतस्य सः एकः विशिष्टः पात्रः आसीत्।
(७) सः शक्राय कर्ण कुण्डलाभ्यां सह कवचं अपि अददात्।
(८) कर्णः सूर्यस्य पुत्रः आसीत्।
(९) कर्णसदृशं महादानी अस्मिन् भूमण्डले नास्ति।
(१०) कर्णः दृढ़ प्रतिज्ञः आसीत्।
(ख) विद्यालयः
(१) मम विद्यालयः 'गुराडियामाता' ग्रामे स्थितः अस्ति।
(२) विद्यालयस्य भवनम् अतीवसुन्दरम् अस्ति।
(३) अहम् प्रतिदिनं विद्यालयं गच्छामि।
(४) अहं विद्यालयं गत्वा गुरुन् प्रणमामि।
(५) गुरवः स्नेहेन पठम् पाठयन्ति।
(६) विद्यालये एकम् उद्यानम् अपि अस्ति।
(७) विद्यालये एकः पुस्तकालयः अस्ति।
(८) विद्यालये एकं विशालं क्रीडाक्षेत्रम् अस्ति।
(९) तत्र छात्राः क्रीडन्ति।
(१०) विद्यालयः मह्यम् अतीव रोचते।
(ग) उद्यानम्
(१) उद्यानम् अत्यन्तं रमणीयम् भवति।
(२) उद्याने वृक्षाः रोहन्ति।
(३) वृक्षाः पर्णैः, पुष्पै, फलैः च शोभन्ते।
(४) बालकाः उद्याने क्रीडन्ति।
(५) उद्याने तडागः अपि अस्ति।
(६) जनाः उद्याने भ्रमणार्थं गच्छन्ति।
(७) खगाः वृक्षेषुः निवसन्ति।
(८) तत्र ते नीडान् रचयन्ति।
(९) प्रभाते खगानां कूजनम् मनोहरम् भवति।
(१०) वर्तमानकाले वृक्षारोपणकार्यं तीव्रगत्या प्रसरति।
(घ) पुस्तकम्
(१) पुस्तकानि मह्यम् अतीव रोचन्ते।
(२) मम समीपे बहूनिपुस्तकानि सन्ति।
(३) पुस्तकानि अतीव मनोहराणि सन्ति।
(४) मम समीपे चित्रपुस्तकम् अपि अस्ति।
(५) रमणीयं चित्रं चित्तम् आनन्दयति।
(६) पुस्तकानि ज्ञानस्य भण्डारः भवन्ति।
(७) पुस्तकानि अस्माकं मित्राणि सन्ति।
(८) पुस्तकानां सङ्गतिः लाभप्रदा भवति।
(९) अस्माभिः पुस्तकानि रक्षणीयानि।
(१०) स्वगृहे लघुः पुस्तकालयो निर्मातव्यः।
(११) पुस्तकेषु यत्र कुत्रचित् न लेखनीयम्।
कक्षा 8 वार्षिक परीक्षा की तैयारी विषय संस्कृत के अभ्यास मॉडल प्रश्नपत्र (हल सहित) एवं महत्वपूर्ण प्रश्न और उत्तर।
1. संस्कृत कक्षा 8 ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र वार्षिक परीक्षा 2025
2. विषय - संस्कृत कक्षा 8 वार्षिक परीक्षा 2025 ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र
वार्षिक परीक्षा 2024 अभ्यास मॉडल प्रश्न पत्र कक्षा 8 विषय- संस्कृत
2.
3. संस्कृत मॉडल प्रश्नपत्र (ब्लूप्रिंट आधारित) वार्षिक परीक्षा 2024 कक्षा 8
4. संस्कृत कक्षा- 8th वार्षिक परीक्षा वर्ष 2024 हेतु महत्वपूर्ण वैकल्पिक प्रश्न
5. मॉडल प्रश्नपत्र विषय संस्कृत (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com
Comments