An effort to spread Information about acadamics

Blog / Content Details

विषयवस्तु विवरण



मॉडल आंसर शीट ~ विषय- संस्कृत कक्षा- 7 वीं, मूल्यांकन माह-फरवरी
Model Answer Sheet ~ Subject- Sanskrit Class- 7th, Assessment Month-February

कौशल आधारित लिखित प्रश्न
खंड- 'अ'

प्रश्न 1 :- (अ) "रक्षाबन्धनम्" इति पाठ-आधारेण प्रश्नानाम् उत्तराणि संस्कृते लिखत-

(i) अस्माकं देशे के-के प्रमुखाः उत्सवाः -

उत्तरम् :- अस्माकं देशे विजयादशमी, दीपावलिः, होलिकोत्सवः, नवरोज्, ईद, वैशाखी, ओणम् रक्षाबंधनम्, मकरसङ्क्रांतिः च प्रमुखाः उत्सवाः।

(ii) रक्षाबन्धनपर्वं कदा भवति?

उत्तरम् :- रक्षाबन्धनपर्वं श्रावणमासस्य पौर्णिमायां भवति।

(iii) के संस्कृतिं प्रकटीकुर्वन्ति?

उत्तरम् :- उत्सवाः समाजस्वभावं संस्कृतिञ्च प्रकटीकुर्वन्ति।

(iv) के वर्षागीतानि गायन्ति नृत्यन्ति च?

उत्तरम्:- लोकगायकाः वर्षागीतानि गायन्ति नृत्यन्ति च।

(ब) " गुरुगोविन्दसिंह " पाठ-अनुसारेण वाक्यनि पूरयत-

(i) गुरुगोविन्दसिंहः सिक्खधर्मस्य प्रवर्तकः।

(ii) गुरुगोविन्दसिंहः वीररसे सहजकविः आसीत्

(iii) 'खालसा' नाम ईश्वरीयदीक्षा

(iv) सज्जनानांरक्षणाय संरक्षणाय दुष्टानां विनाशाय खड्गं गृहीत्वा युद्धं कुरु खड्गस्य जयोsस्तु इति निनादं कुर्वन् बहूनि युद्धानि कृतवान।

प्रश्न 2 :- अधोलिखित गद्यांश पाठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-

एकस्मिन् पर्वते दुर्मुखः नाम महौजस्वी सिंहः वसति स्म। सः च सदैव बहूनां पशूनां वधं करोति स्म। एकदा सर्वे पशवः सिंहस्य समीपम् अगच्छन् अवदन् च मृगेन्द्र! त्वं सदैव पशूनां वधं कथं करोषि ? प्रसीद, वयं स्वयं तव भोजनाय प्रतिदिनम् एकैकं पशुं प्रेषयिष्यामः।

(i) सिंहस्य नाम किम् आसीत्?

उत्तरम् :- सिंहस्य नाम दुर्मुखः आसीत्।

(ii) सिंहः केषां वधं करोति स्म?

उत्तरम् :- सिंहः बहूनां पशूनां वधं करोति स्म।

(iii) के सिंहस्य समीपम् अगच्छन्?

उत्तरम् :- सर्वे पशवः सिंहस्य समीपम् अगच्छन्।

(iv) भोजनाय प्रतिदिनं किं प्रेषयिष्यामः?

उत्तरम् :- भोजनाय प्रतिदिनं एकैकं पशुं प्रेषयिष्यामः।

प्रश्न 3 :- अधोलिखित पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-

माता शत्रुः पिता वैरी, येन बालो न पाठितः।
न शोभते सभामध्ये, हंसमध्ये बको यथा।।

(i) येन बालो न पाठितः,सः कीदृशः?

उत्तरम् :- माता शत्रुः पिता वैरी, येन बालो न पाठितः।

(ii) अपाठितः बालः कुत्र न शोभते?

उत्तरम्:- अपाठितः बालः सभामध्ये न शोभते।

(iii) हंसमध्ये कः न शोभते ?

उत्तरम् :- हंसमध्ये बको न शोभते।

(iv) 'पठितः' इति शब्दे धातुः अस्ति?

उत्तरम् :- 'पठितः' इति शब्दे 'पठ्' धातुः अस्ति।

प्रश्न 4 :– स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत्।

टीप :- विद्यार्थियों के द्वारा पाठ्यपुस्तक के किसी भी श्लोक का लेखन करने पर अंक प्रदान की जानी चाहिए। यथा–

उत्तरम् :- कामधेनुगुणा विद्या सर्वदा फलदायिनी।
प्रवासे मातृसदृशी विद्या गुप्तधनं स्मृतम्।।

प्रश्न 5 :– निर्देशानुसारं उत्तरम् लिखत्।

(क) यथा- '13' इति संस्कृत भाषायां भवति – त्रयोदश

(i) '15' इति संस्कृत भाषायां भवति – पञ्चदश

(ii) '20' इति संस्कृत भाषायां भवति – विंशतिः

(ख) सन्धि विच्छेदं कुरूत –

यथा- देवालयः = देव + आलयः

(i) भानूदयः = भानु +उदयः

(ii) सज्जनः = सत्+ जनः

(ग) समासस्य नाम लिखत्–

यथा :- राष्ट्रभक्तः – तत्पुरुष समास

पञ्चवटी – द्विगु समास

प्रश्न 6:- अधोलिखित पदसहाय्येन 'भोपालनगरम्' पाठस्य के चित्रं दृष्ट्वा पंचवाक्यानि संस्कृते लिखत– (सिहः, बालकः, सरोवरः, मकरः, प्राकृतिकं, सौन्दर्यं, जन्तुशाला)

टीप :- (1) चित्र नीचे दिया गया है।

(2) विद्यार्थियों के द्वारा कोई पाँच वाक्य संस्कृत में लिखने पर अंक प्रदान की जानी चाहिए यथा–

1. भोपालनगरम् सरोवराणां नगरम् इति कथ्यते।

2. अस्य नगरस्य प्राकृतिकं सौन्दर्यं दर्शनीयम्।

3. जन्तुशाला दृश्टवा जनाः मुदिताः चकिताः च भवन्ति।

4. बालकः बालिका च मकरं पश्यन्ति।

5. सिंहः वनराजः भवति।

परियोजना कार्यम्
खण्ड 'ब'

प्रश्न 7:- (अ) 'कालबोधः' पाठात् निम्नलिखित बिन्दूनाम् अनुसारं कार्य कुरुत्।

(i) चैत्रदिभारतीयमासानां नाम लेखनम्–

उत्तरम् :- चैत्रः, वैशाखः, ज्येष्ठः, आसाढ़ः,श्रावणः, भाद्रपदः, आश्विनः, कार्तिकः, मार्गशीर्षः, पौषः, माघः, फाल्गुनः।

(ii) भारतीयतिथीनां लेखनम्–

उत्तरम् :- प्रतिपदा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, चतुर्दशी, पूर्णिमा, अमावस्या।

(iii) षड्ऋतुनां लेखनम्–

उत्तरम् :- वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः

(iv) पक्षद्वे चन्द्रस्थितिः वर्णनम्

उत्तरम् :- शुक्लपक्षे पूर्णिमा कृष्णपक्षे अमावस्या भवति। शुक्लपक्षे चन्द्रः क्रमशः वर्धते। कृष्णपक्षे च क्रमशःक्षयं प्रप्नोति।

(v) भारतीय प्रमुख उत्सवानां नामानि–

उत्तरम् :- दीपावलिः, होलिकोत्सवः, रक्षाबंधनम्, दशहरा, मकरसङ्क्रांतिः, वैशाखी, ओणम्

(ब) देशहितायं पाठात् निम्नलिखितं बिन्दु अनुसारं परियोजना कार्यम् कुरूत–

(i) 'बालचरः' संस्थायाः परिचयः –

उत्तरम् :- बालचरः इति बालानाम् एका सेवासंस्था भवति। तस्याः सदस्यः भूत्वा वयं देशसेवां कर्तुं समर्थाः भवामः।

(ii) बालचरोः गणवेशं सहितं चित्रम् –

टीप:- बालचर गणवेश का चित्र बनाने पर विद्यार्थियों को प्रदान की जानी चाहिए।

(iii) बालचरान् कार्याणि

उत्तरम् :- गणवेशधारिणः बालचराः सर्वत्र विचरामः। बालचराः देवालयेषु मेलापकेषु हट्टेषु जनसमूहेषु सामाजिककार्यक्रमेषु भूकम्पादि आपात्कालेषु च उत्साहेन जनानां साहाय्यं कुर्मः।

(iv) बालचरान् प्रतिज्ञाः

उत्तरम् :- प्रथमा तु 'ईश्वरं स्वदेशं प्रति च कर्तव्यपालनं' द्वितीया तावत् 'सर्वेषां सहायता' तृतीया प्रतिज्ञा 'संस्थायाः अनुशासनस्य पालनम्' इति।

(v) सेनानाम् ध्येयवाक्यम् कार्याणि च – जलसेनायाः

'शन्नोवरूणः'

वायुसेनायाः

नभः स्पृशं दीप्तम्

स्थलसेनायाः

सेवा अस्माकं धर्मः

RF competition
INFOSRF.COM

I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com


Watch related information below
(संबंधित जानकारी नीचे देखें।)



  • Share on :

Comments

Leave a reply

Your email address will not be published. Required fields are marked *

You may also like

मॉडल आंसर शीट, कक्षा-7, विषय-सामाजिक विज्ञान, माह-मार्च 2021 || Modal Answer Sheet Social SCIENCE

(अ) क्या कारण है कि कृषि अफ्रीका के निवासियों का मुख्य व्यवसाय होते हुए भी यह महाद्वीप कृषि के क्षेत्र में पिछड़ा हुआ है?

उत्तर- अफ्रीका महाद्वीप के निवासियों का मुख्य व्यवसाय कृषि होते हुए भी यह महाद्वीप कृषि के क्षेत्र में पिछड़ा हुआ है। इसके कुछ कारण है।

(1) महाद्वीप के कुल क्षेत्रफल में कृषि योग्य भूमि लगभग 10% ही है।
(2) महाद्वीप का अधिकांश भाग मरुस्थलीय, पठारी और एवं वनों से ढका है।
(3) सिंचाई के साधन बहुत सीमित है।
(4) समुद्र तटीय भागों को छोड़कर अधिकांश भूभाग समतल नहीं है।

Read more

मॉडल आंसर शीट, कक्षा 7th विषय-विज्ञान, माह-मार्च || Model Answer Sheet, Science

प्रश्न 1. बूझो साइकिल चलाना सीख रहा था तभी साइकिल अनियंत्रित हो जाने के कारण वह गिर पड़ा और उसे घुटने में चोट लग गई, चोट वाले स्थान से रक्त बहने लगा। कुछ समय बाद उसने देखा कि रक्त का बहना अपने आप रुक गया और चोट वाले स्थान पर गहरे लाल रंग का एक थक्का जम गया। बूझो यह देखकर आश्चर्य चकित है। बूझो के कुछ प्रश्नों के उत्तर दीजिए-

(i) रक्त का बहना रुक गया, इसका क्या कारण हो सकता है?

उत्तर- रक्त का बहना रुक गया इसका कारण रक्त में एक अन्य प्रकार की कोशिकाओं की उपस्थिति के कारण होता है जिन्हें पट्टिकाणु (प्लेटलेट्स) कहते हैं।

Read more

मॉडल उत्तर पत्रक - विषय - संस्कृत, कक्षा 7th मार्च 2021 || Model Answer Sheet - Subject - Sanskrit

प्रश्न 1 – (अ) "प्राचीनभारतीय-वैज्ञानिकाः" इति पाठ आधारेण प्रश्नानाम् उत्तराणि संस्कृते लिखत्-

(i) शुल्बसूत्रे प्रमेयस्य प्रयोगं कः कृतवान्?

उत्तरम् – शुल्बसूत्रे प्रमेयस्य प्रयोगं बोधायनः कृतवान्।

(ii) महर्षिः पराशरः किम् कृतवान् ?

उत्तरम् – महर्षिः पराशरः 'वृक्षायुर्वेद' ग्रन्थे वनस्पतीनां वर्गीकरणं कृतवान्।

(iii) कः प्रकाशस्य गतिं सम्यक् जानन्ति?

उत्तरम् – आर्यभटः प्रकाशस्य गतिं सम्यक् जानन्ति।

(iv) भास्कराचार्यः किम् प्रतिपादितवान् ?

उत्तरम् – भास्कराचार्यः गुरुत्वाकर्षणसिद्धांतं π (पै) इति गणितचिन्हस्य मानं त्रैराशिक-नियमादीन् प्रतिपादितवान्।

Read more

Follow us

Catagories

subscribe